वांछित मन्त्र चुनें

सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥

अंग्रेज़ी लिप्यंतरण

sumaṅgalīr iyaṁ vadhūr imāṁ sameta paśyata | saubhāgyam asyai dattvāyāthāstaṁ vi paretana ||

पद पाठ

सु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त । सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥ १०.८५.३३

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:33 | अष्टक:8» अध्याय:3» वर्ग:26» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:33


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इयं वधूः सुमङ्गलीः) यह नवविवाहिता वधू शुभमङ्गलवाली है (इमां पश्यत समेत) हे इसके सम्बन्धी जनो तथा हितचिन्तको ! इसका दर्शन करो और सम्यक् आलिङ्गन करो (अस्यै सौभाग्यं दत्त्वाय) इसके लिए “सौभाग्य हो” यह आशीर्वाद देकर (अथ) पुनः (अस्तं विपरेतन) अपने-अपने घर को जाओ ॥३३।
भावार्थभाषाः - वधू घर में मङ्गल का सञ्चार करनेवाली है। सम्बन्धी और हितचिन्तक सौभाग्य का आशीर्वाद दें और स्नेह से मिलें ॥३३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इयं वधूः सुमङ्गलीः) एषा वधूर्नवविवाहिता शुभानि मङ्गलानि यस्यां तथा भूतास्ति “सुमङ्गलीः शोभनानि मङ्गलानि यासु ताः” [ऋ० १।११२।१३ दयानन्दः] (इमां पश्यत समेत) हे सम्बन्धिनो जनाः ! सखायश्च ! एतां पश्यत सम्यक् श्लिष्यत (अस्यै सौभाग्यं दत्त्वाय) अस्यै सौभाग्यमित्याशीर्दत्त्वा (अथ) अनन्तरं (अस्तं विपरेतन) स्वगृहं वियुज्य गच्छत ॥३३॥